श्री विष्णु चालीसा (१)
महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो विदुर्नाद्यप्यज्ञश्चलमतिरहो नाथ नु कथम् । विजानीयामद्धा नलिननयनात्मीयवचसो विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥१॥ यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परेऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे । तथा शक्तिं केचिद्गणपतिमुतार्कं च सुधियो मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥२॥ शिवः पादाम्भस्ते शिरसि धृतवानादरयुतं तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः । दिनेशं चैवामुं तव नयनमूचुस्तु नियमास्त्वदन्यः को ध्येयो जगति किल देवो वद विभो ॥३॥ क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः क्वचित्खर्वो रामो दशरथसुतो नन्दतनयः । क्वचिद्बुद्धः कल्किर्विहरसि कुभारापहृतये स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥४॥ हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना द्रुतं मात्स्यं धृत्वा वपुरजरशङ्खासुरमथो । क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधेरशेषं सङ्गुप्तं जगदपि च वेदैकशरणम् ॥५॥ निमज्जन्तं वार्धौ नगवरमुपालोक्य सहसा हितार्थं देवानां कमठवपुषाऽऽविश्य गहनम् । पयोराशिं पृष्ठे तमजित सलीलं घृतवतो जगद्धातुस्तेऽभूत्किमु सुलभभाराय गिरिकः ॥६॥ हिरण्याक्षः क्षोणीमविशदसुरो नक्रनिलयं समादायामर्त्यैः कमलजुमुखैरम्बरगतैः । स्तुतेनानन्तात्मन्नचिरमवभाति स्म विघृता त्वया दंष्ट्राग्रेऽसाववनिरखिला कन्दुक इव ॥७॥ हरिः क्वास्तीत्युक्ते दनुजपतिनाऽऽपूर्य निखिलं जगन्नादैः स्तम्भान्नरहरिशरीरेण करजैः । समुत्पत्याशूरावसुरवरमादारितवतस्तवाख्याता भूमन्किमु जगति नो सर्वगतता ॥८॥ विलोक्याजं द्वार्गं कपटलघुकायं सुररिपुर्निषिद्धोऽपि प्रादादसुरगुरुणात्मीयमखिलम् । प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं बलेर्भक्ताधीन्यं तव विदितमेवामरपते ॥९॥ समाधावासक्तं नृपतितनयैर्वीक्ष्य पितरं हतं बाणै रोषाद्गुरुतरमुपादाय परशुम् । विना क्षत्रं विष्णो क्षितितलमशेषं कृतवसोऽसकृत्किं भूभारोद्धरणपटुता ते न विदिता ॥१०॥ समाराध्योमेशं त्रिभुवनमिदं वासवमुखं वशे चक्रे चक्रिन्नगणयदनिशं जगदिदम् । गतोऽसौ लङ्केशस्त्वचिरमथ ते बाणविषयं न केनाप्तं त्वत्तः फलमविनयस्यासुररिपो ॥११॥ क्वचिद्दिव्यं शौर्यं क्वचिदपि रणे कापुरुषता क्वचिद्गीताज्ञानं क्वचिदपि परस्त्रीविहरणम् । क्वचिन्मृत्स्नाशित्वं क्वचिदपि च वैकुण्ठविभवश्चरित्रं ते नूनं शरणद विमोहाय कुधियाम् ॥१२॥ न हिंस्यादित्येद्घ्रुवमवितथं वाक्यमबुधैरथाग्नीषोमीयं पशुमिति तु विप्रैर्निगदितम् । तवैतन्नास्थानेऽसुरगणविमोहाय गदतः समृद्धिर्नीचानां नयकर हि दुःखाय जगतः ॥१३॥ विभागे वर्णानां निगमनिचये चावनितले विलुप्ते सञ्जातो द्विजवरगृहे शम्भलपुरे । समारुह्याश्वं स्वं लसदसिकरो म्लेञ्च्छनिकरान्निहन्ताऽस्युन्मत्तान्किल कलियुगान्ते युगपते ॥१४॥ गभीरे कासारे जलचरवराकृष्टचरणो रणेऽशक्तो मज्जन्नभयद जलेऽचिन्तयदसौ । यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो गतः स्वर्गं स्थानं भवति विपदां ते किमु जनः ॥१५॥ सुतैः पृष्टो वेधाः प्रतिवचनदानेऽप्रभुरसावथात्मन्यात्मानं शरणमगमत्त्वां त्रिजगताम् । ततस्तेऽस्तातङ्का ययुरथ मुदं हंसवपुषा त्वया ते सार्वज्ञं प्रथितममरेशेह किमु नो ॥१६॥ समाविद्धो मातुर्वचनविशिखैराशु विपिनं तपश्चक्रे गत्वा तव परमतोषाय परमम् । ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि किमस्त्यस्मिँल्लोके त्वयि वरद तुष्टे दुरधिगम् ॥१७॥ वृकाद्भीतस्तूर्णं स्वजनभयभित्त्वां पशुपतिर्भ्रमँल्लोकान्सर्वान् शरणभुपयातोऽथ दनुजः । स्वयं भस्मीभूतस्तव वचनभङ्गोद्गतमती रमेशाहो माया तव दुरनुमेयाऽखिलजनैः ॥१८॥ हृतं दैत्यैर्द्दष्ट्वाऽनृतघटमजय्यैस्तु नयतः कटाक्षैः संमोहं युवतिवरवेषेण दितिजान् । समग्रं पीयूषं सुभग सुरपूगाय ददतः समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरतिः ॥१९॥ समाकृष्टा दुष्टैर्दुपदतनयाऽलब्धशरणा सभायां सर्वात्मंस्तव शरणमुच्चैरुपगता । समक्षं सर्वेषामभवदचिरं चीरनिचयः स्मृतेस्ते साफल्यं नयनविषयं नो किमु सताम् ॥२०॥ वदन्त्येके स्थानं तव वरद वैकुण्ठमपरे गवां लोकं लोकं फणिनिलयपातालमितरे । तथान्ये क्षीरोदं हृदयनलिनं चापि तु सतां न मन्ये तत्स्थानं त्वहमिह च यत्रासि न विभो ॥२१॥ शिवोऽहं रूद्राणामहममरराजो दिविषदां मुनीनां व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम् । कुबेरो यक्षाणामिति तव वचो मन्दमतये न जाने तज्जातं जगति ननु यन्नासि भगवन् ॥२२॥ शिरो नाको नेत्रे शशिदिनकरावम्बरमुरो दिशः श्रोते वाणी निगमनिकरस्ते कटिरिला । अकूपारो बस्तिश्चरणमपि पातालमिति वै स्वरूपं तेऽज्ञात्वा नृतनुमवजानन्ति कुधियः ॥२३॥ शरीरं वैकुण्ठं हृदयनलिनं वाससदनं मनोवृत्तिस्तार्क्ष्यो मतिरियमथो सागरसुता । विहारस्तेऽवस्थात्रितयमसवः पार्षदगणो न पश्यत्यज्ञा त्वामिह बहिरहो याति जनता ॥२४॥ सुघोरं कान्तारं विशति च तडागं सुगहनं तथोत्तुङ्गं शृङ्गं सपदि च समारोहति गिरेः । प्रसूनार्थं चेतोम्बुजममलमेकं त्वयि विभो समर्प्याज्ञस्तूर्णं वत न च सुखं विन्दति जनः ॥२५॥ कृतैकान्तावासा विगतनिखिलाशाः शमपरा जितश्वासोच्छ्वासास्त्रुटितभवपाशाः सुयमिनः । परं ज्योतिः पश्यन्त्यनघ यदि पश्यन्तु मम तु श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपुः ॥२६॥ कदा गङ्गोत्तुङ्गामलतरतरङ्गाच्छपुलिने वसन्नाशापाशादखिलखलदाशाद् अपगतः । अये लक्ष्मीकान्ताम्बुजनयन तातामरपते प्रसीदेत्याजल्पन्नमरवर नेष्यामि समयम् ॥२७॥ कदा शृङ्गैः स्फीते मुनिगणपरीते हिमनगे द्रुमावीते शीते सुरमधुरगीते प्रतिवसन् । क्वचिद्ध्यानासक्तो विषयसुविरक्तो भवहरं स्मरँस्ते पादाब्जं जनिहर समेष्यामि विलयम् ॥२८॥ सुधापानं ज्ञानं न च विपुलदानं न निगमो न यागो नो योगो न च निखिलभोगोपरमणम् । जपो नो नो तीर्थं व्रतमिह न चोग्रं त्वयि तपो विना भक्तिं तेऽलं भवभयविनाशाय मधुहन् ॥२९॥ नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः । नमोविस्पष्टाय प्रणवपरिमृष्टाय च नमो नमस्ते सर्वात्मन्पुनरपि पुनस्ते मम नमः ॥३०॥ कणान्कश्चिद्वृष्टेर्गणननिपुणस्तूर्णमवनेस्तथा- शेषान्पांसूनमित कलयेच्चापि तु जनः । नभः पिण्डीकुर्यादशिरमपि चेच्चर्मवदिदं तथापीशासौ ते कलयितुमलं नाखिलगुणान् ॥३१॥ क्व माहात्म्यं सीमोज्झितमविषयं वेदवचसां विभो ते मे चेतः क्व च विविधतापाहतमिदम् । मयेदं यत्किञ्चिद्गदितमथ बाल्येन तु गुरो गृहाणैतच्छुद्धार्पितमिह न हेयं हि महताम् ॥३२॥ इति हरिस्तवनं सुमनोहरं परमहंसजनेन समीरितम् । सुगमसुन्दरसारपदास्पदं तदिदमस्तु हरेरनिशं मुदे ॥३३॥ गदारथाङ्गाम्बुजकम्बुधारिणो रमासमाश्लिष्टतनोस्तनोतु नः । बिलेशयाधीशशरीरशायिनः शिवं स्तवोऽस्रमयं परं हरेः ॥३४॥ पठेदिमं यस्तु नरः परं स्तवं समाहितोघौघघनप्रभञ्जनम् । स विन्दतेऽत्राखिलभोगसम्पदो महीयते विष्णुपदे ततो ध्रुवम् ॥३५॥